Administrator
|
Buddhi Stotra by Yagvalya Rishi
याज्ञवल्क्य उवाच कृपां कुरु जगन्मातर्मामेवं हततेजसम् । गुरुशापात्स्मृतिभ्रष्टं विद्दाहीनं च दुःखितम् ॥ १ ॥ ज्ञानं देहि स्मृतिं विद्दां शक्तिं शिष्यप्रबोधिनीम् । ग्रंथकर्तृत्वशक्तिं च सुशिष्यं सुप्रतिष्ठितम् ॥ २ ॥ प्रतिभां सतसभायां च विचार क्षमतां शुभाम् । लुप्तं सर्वं दैवयोगान्नवीभूतं पुनः कुरु ॥ ३ ॥ यथांकुरं भस्मनि च करोति देवता पुनः । ब्रह्मस्वरुपा परमा ज्योतीरुपा सनातनी ॥ ४ ॥ सर्व विद्दाधिदेवी या तस्यै वाण्यै नमोनमः । विसर्गबिंदुमात्रासु यदधिष्ठानमेव च ॥ ५ ॥ तदधिष्ठात्री या देवी तस्यै नित्यै नमोनमः । व्याख्यास्वरुपा सा देवी व्याख्याधिष्ठातृरुपिणी ॥ ६ ॥ यया विनाप्रसंख्यावान संख्यां कर्तुं न शक्यते । कालसंख्यारुपा या तस्यै देव्यै नमोनमः ॥ ७ ॥ भ्रमसिद्धान्तरुपा या तस्यै देव्यै नमोनमः । स्मृतिशक्ति ज्ञानशक्ति बुद्धिशक्ति स्वरुपिणी ॥ ८ ॥ प्रतिभा कल्पनाशक्तिर्या च तस्यै नमोनमः । सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै ॥ ९ ॥ बभूव मूकवन्सोपि सिद्धान्तं कर्तुमक्षमः । तदा जगाम भगवानात्मा श्रीकृष्ण ईश्र्वरः ॥ १० ॥ उवाच स च तां स्तौहि वाणिमिष्टां प्रजापते । स च तुष्टाव तां ब्रह्मा चाज्ञया परमात्मनः ॥ ११ ॥ चकार तत्प्रसादेन तदा सिद्धान्तमुत्तमम् । यदाप्यनंतं पप्रच्छ ज्ञानमेकं वसुंधरा ॥ १२ ॥ बभूव मूकवत्सोपि सिद्धान्तं कर्तुमक्षमः । तदा तां च तुष्टाव संत्रस्त कश्यपाज्ञया ॥ १३ ॥ ततश्र्चकार सिद्धान्तं निर्मलं भ्रमभंजनम् । व्यासः पुराणसूत्रं च पप्रच्छ वाल्मीकिं यदा ॥ १४ ॥ मौनीभूतश्र्च सस्मार तामेव जगदंबिकाम् । तदा चकार सिद्धान्तं तद्वरेण मुनीश्र्वरः ॥ १५ ॥ संप्राप्य निर्मलं ज्ञानं भ्रमांधध्वंसदीपकम् । पुराणसूत्रं श्रुत्वा च व्यासः कृष्णकलोद् भवः ॥ १६ ॥ तां शिवां वेद दध्यौ च शतवर्षं च पुष्करे । तदा त्वतो वरं प्राप्य सत्कवींद्रो बभूव ह ॥ १७ ॥ तदा वेदविभागं च पुराणं च चकार सः । यदा महेन्द्रः पप्रच्छ तत्वज्ञानं सदाशिवम् ॥ १८ ॥ क्षणं तामेव संचिंत्य तस्मै ज्ञानं ददौ विभुः । पप्रच्छ शब्दशास्त्रं च महेंद्रश्च बृहस्पतिम् ॥ १९ ॥ दिव्यं वर्षसहस्रं च सा त्वां दध्यौ च पुष्करे । तदा त्वत्तो वरं प्राप्य दिव्यंवर्षसहस्रकम् ॥ २० ॥ उवाच शब्दशास्त्रं च तदर्थं च सुरेश्र्वरम् । अध्यापिताश्च ये शिष्या यैरधीतं मुनीश्वरैः ॥ २१ ॥ ते च तां परिसंचिंत्य प्रवर्तते सुरेश्वरीम् । त्वं संस्तुता पूजिता च मुनीद्रैर्मुनिमानवैः ॥ २२ ॥ दैत्येंद्रैश्चसुरैश्र्चापि ब्रह्मविष्णुशिवादिभिः । जडीभूतः सहस्रास्यः पंचवक्त्रश्चतुर्मुखः ॥ २३ ॥ यां स्तौतुं किमहं स्तौमि तामेकास्येन मानव: । इत्युक्त्वा याज्ञवल्क्यच भक्तिनम्रात्मकंधरः ॥ २४ ॥ प्रणनाम निराहारो रुरोद च मुहुर्मुहुः । ज्योतीरुपा महामाया तेन दृष्टाप्युवाच तम् ॥ २५ ॥ सुकवींद्रो भवेत्युक्वा वैकुंठं जगाम हे । याज्ञवल्क्यकृतं वाणीस्तोत्रमेतस्तु यः पठेत् ॥ २६ ॥ सुकवींद्रो महावाग्मी बृहस्पतिसमो भवेत् । महामूर्खश्च दुर्बुद्धिर्वर्षमेकं यदा पठेत् । स पंडितश्च मेघावी सुकवींद्रो भवेद् ध्रुवम् ॥ २७ ॥ ॥ इति श्रीयाज्ञवल्क्य विरचितं बुद्धिस्तोत्रम् संपूर्णम् ॥ Instantly start, sell, manage and grow using our wide range of products & services like payments, free online store, logistics, credit & financing and more across mobile & web. ![]() Personals ================================= चारों वर्णों की समानता और एकता ================ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःख भाग्भवेत्। ऊँ शांतिः शांतिः शांतिः |
Free forum by Nabble | Edit this page |